वांछित मन्त्र चुनें

च॒क्रं यद॑स्या॒प्स्वा निष॑त्तमु॒तो तद॑स्मै॒ मध्विच्च॑च्छद्यात् । पृ॒थि॒व्यामति॑षितं॒ यदूध॒: पयो॒ गोष्वद॑धा॒ ओष॑धीषु ॥

अंग्रेज़ी लिप्यंतरण

cakraṁ yad asyāpsv ā niṣattam uto tad asmai madhv ic cacchadyāt | pṛthivyām atiṣitaṁ yad ūdhaḥ payo goṣv adadhā oṣadhīṣu ||

पद पाठ

च॒क्रम् । यत् । अ॒स्य॒ । अ॒प्ऽसु । आ । निऽस॑त्तम् । उ॒तो इति॑ । तत् । अ॒स्मै॒ । मधु॑ । इत् । च॒च्छ॒द्या॒त् । पृ॒थि॒व्याम् । अति॑ऽसितम् । यत् । ऊधः॑ । पयः॑ । गोषु॑ । अद॑धाः । ओष॑धीषु ॥ १०.७३.९

ऋग्वेद » मण्डल:10» सूक्त:73» मन्त्र:9 | अष्टक:8» अध्याय:3» वर्ग:4» मन्त्र:4 | मण्डल:10» अनुवाक:6» मन्त्र:9


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अस्य चक्रम्) इस राजा का राष्ट्र (अप्सु-आनिषत्तम्) जलों में-नदीकुल्याओं के मध्य स्थित हो (उत-उ-अस्मै) अपितु इस राष्ट्र  के लिए (तत्-मधु) वहाँ जल (इत्-चच्छद्यात्) अवश्य राष्ट्र में बल देता है (पृथिव्याम्-अतिषितम्) भूमि में उद्घाटित तथा सींचा हुआ (यत्-ऊधः) जो जलबान्ध है, (पयः) वहाँ का जल (गोषु ओषधीषु) खेत की क्यारियों में और वहाँ की ओषधियों में (अदधाः) धारण करे-पहुँचावे ॥९॥
भावार्थभाषाः - राजा का राष्ट्र नदियों नहरों से युक्त हो, इससे राष्ट्र को बल मिलता है। राष्ट्र भूमि में जल को एकत्र तथा बान्ध बनाकर खेतों और ओषधियों में सींचे ॥९॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अस्य चक्रम्) अस्य राज्ञो राष्ट्रम् “चक्रवद्वर्तमानं राज्यम्” [ऋ० ४।३०।४ दयानन्दः] (अप्सु आनिषत्तम्) जलेषु-समन्तात् स्थितं भवतु (उत-उ-अस्मै) अपि तु खल्वस्मै राष्ट्राय (तत्-मधु) तत्रस्थं जलम् “मधु उदकनाम” [निघ० १।१२] (इत्-चच्छद्यात्) अवश्यं राष्ट्रे बलं प्रयच्छति “छदयत् बलयति” [ऋ० ६।४९।५ दयानन्दः] (पृथिव्याम्-अतिषितम्) भूमौ खलूद्घाटितमुत्पादितं (यत्-ऊधः) यज्जलबन्धनम् “ऊधः-जलस्थानम्” [ऋ० १।१४६।२ दयानन्दः] (पयः-गोषु-ओषधीषु-अदधाः) तत्रत्यञ्जलम् “पयः-उदकनाम” [निघ० १।१२] क्षेत्रभक्तिषु तत्रौषधिषु धारय ॥९॥